संस्कृत भाषा में लघु कथा पढ़ने में एक भिन्न ही आनन्द है। यूँ तो हम संस्कृत के महा ग्रन्थों से जीवन के विभिन्न अङ्गों को छू जाने वाली कथायें, घटनायें या विचार पढ़ सकते हैं पर ऑनलाइन जगत में लघु कथा का अपना ही महत्व तथा आकर्षण है।
इस श्रङखला में चलते हुये आज हम एक साधु के जीवन पर आधारित कहानी पढ़ेंगे।
यदि आप कोई सुझाव, विचार या टिप्पणी प्रस्तुत करना चाहें तो हमें अवश्य लिखें।
यदि आप संस्कृत भाषा सीखना चाहते हैं तो इन पुस्तकों से आरम्भ कर सकते हैं:
संस्कृत भाषा में कहानी–साधूनां जीवनम्
गङ्गातीरे एकः साधुः आसीत्। सः बहु उपकारं करोति स्म। यः अपकारं करोति तस्यापि उपकारं करोति स्म। एकस्मिन् दिने सः गङ्गानद्यां सनानं कर्तुं नदीं गतवान्। नदीप्रवाहे एकः वृश्चिकः आगतः। साधुः वृश्चिकं दृष्टवान्। तं हस्तेन गृहीतवान्। तीरे स्थापयितुं प्रयत्नं कृतवान्। किन्तु सः साधोः हस्तम् अदशत्। साधुः तं त्यक्तवान्। वृश्चिकः जले अपतत्। पुनः साधुः वृश्चिकं गृहीत्वा तीरे स्थापयितुं प्रयत्नं कृतवान्। पुनः वृश्चिकः हस्तम् अदशत्। एवम् अनेकवारं साधुः वृश्चिकं गृहीतवान्। वृश्चिक- अपि अदशत्।
नदीतीरे एकः पुरुषः आसीत्।
सः उक्तवान्
साधुमहाराज। अयं वृश्चिकः दुष्टः। सः पुनः पुनः दशति। भवान् किमर्थं तं हस्ते वृथा स्थापयति। वृश्चिकं त्यजतु।
साधुः उक्तवान्
वृश्चिकः क्षुद्रः जन्तुः। दंशनं तस्य स्वभावः। सः स्वस्य स्वभावं न त्यजति। अहं तु मनुष्यः। अहं मम परोपकास्वभावं कथं त्यजामि।
यः अपकारिणाम् अपि उपकारं करोति सः एव साधुः भवति।
(इस कहानी का संस्कृत रूप संस्कृतभारती के द्वारा प्रकाशित पत्रालयद्वारा संस्कृतम् पत्रिका के अष्टं भाग में से लिया गया है)