Quantcast
Channel: Vivek Kumar
Viewing all articles
Browse latest Browse all 1577

संस्कृत में कहानी–चतुरः श्रृगालः

$
0
0

पाठशाला में जाने वाले या संस्कृत भाषा में रुचि रखने वाले पाठकों के लिये हम एक लघु कथा प्रस्तुत कर रहे हैं। सम्पूर्ण कथा संस्कृत भाषा में अनुवादित है।

ये कहानी एक सिंह तथा सियार की है जिसमें चतुर सियार ना ही अपना जीवन सुरक्षित करता है बल्कि सिंह जो कि क्रूर था उसको भी मार देता है।

सिंह की क्रूरता उसकी बुद्धि को हर लेती है और उसी के कारण उसकी मृत्यु हो जाती है।

संस्कृत में कहानी

एकः वनम् अस्ति। तत्र एकः सिंहः निवसति। सः अतीव क्रूरः। सः प्रतिदिनम् एकः मृगं खादति।

एकदा तत्र एकः श्रृगालः आगच्छति। सः अतीव चतुरः। सः सिंहं पश्यति भीतः च भवति। सिंहः श्रृगालस्य समीपम् आगच्छति। तं खादितुं तत्परः भवति। तदा श्रृगालः रोदनं करोति।

सिंहः श्रृगालं पृच्छति

भवान् किमर्थं रोदनं करोति।

श्रृगालः वदति

श्रीमन्। वने एकः अन्यः सिंहः अस्ति। सः मम पुत्रान् खादितवान्। अतः अहं रोदनं करोमि।

सिंहः पृच्छति

सः अन्यः सिंहः कुत्र अस्ति।

श्रृगालः वदति

समीपे एकः कूपः अस्ति। सः तत्र निवासं करोति।

सिंहः वदति

अहं तत्र गत्वा पश्यामि। तं सिंहं मारयामि।

श्रृगालः वदति

श्रीमन्। आगच्छतु। अहं तं दर्शयामि।

श्रृगालः सिंहं कूपस्य समीपं नयति। कूपजलं दर्शयति सिंहः तत्र स्वप्रतिबिम्बं पश्यति। सः कोपेन गर्जनं करोति। कूपात् प्रतिध्वनिः भवति। तम् अन्यः सिंहः इति सः चिन्तयति। कुपितः सिंहः कूपे कूर्दनं करोति। सः तत्र एव मृतः भवति।

एवं श्रृगालः स्वचातुर्येण आत्मरक्षणं करोति।


Viewing all articles
Browse latest Browse all 1577

Trending Articles